कलशस्य मुखे विष्णु: कंठे रुद्र: समाश्रित:

मूले त्त्राअस्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ॥

कुक्षौ तु सागरा: सर्वे सप्तद्वीपा वसुधरा ।

ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण: ।

अंगैश्च सहिता: सर्वे कलशं तु समाश्रिताः ।

अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।

आयांतु देविपूजार्थ दुरितक्षयकारकाः ॥

गंगे च यमुने चैव गोदावरि सरस्वती ।

नर्मदे, सिंधु, कावेरि जलेऽस्मिन्‌ सन्निधिं कुरु ॥

श्रीवरुणाय नमः ।

सर्वोपचारार्थे गंधाक्षतपुष्पाणि समर्पयामि ॥

Mandir Timings