अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ।दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥१।।आवाहनं न जानामि न जानामि विसर्जनम् ।पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥२।।मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥३।।गतं पापं गतं दुःखं गतं दारिद्र्यमेवच ।आगता सुखसम्पत्ती पुण्य हं तव दर्शनात् ।।४॥