ॐ हिरण्यवर्णां हरिणींसुवर्णरजतस्रजाम्
हरिःॐहिरण्यवर्णांहरिणींसुवर्णरजतस्रजाम्।
चन्द्रांहिरण्मयींलक्ष्मींजातवेदोमआवह॥१॥
तांमआवहजातवेदोलक्ष्मीमनपगामिनीम्।
यस्यांहिरण्यंविन्देयंगामश्वंपुरुषानहम्॥२॥
अश्वपूर्वांरथमध्यांहस्तिनादप्रबोधिनीम्।
श्रियंदेवीमुपह्वयेश्रीर्मादेवीजुषताम्॥३॥
कांसोस्मितांहिरण्यप्राकारामार्द्रांज्वलन्तींतृप्तांतर्पयन्तीम्।
पद्मेस्थितांपद्मवर्णांतामिहोपह्वयेश्रियम्॥४॥
चन्द्रांप्रभासांयशसाज्वलन्तींश्रियंलोकेदेवजुष्टामुदाराम्।
तांपद्मिनीमींशरणमहंप्रपद्येऽलक्ष्मीर्मेनश्यतांत्वांवृणे॥५॥
आदित्यवर्णेतपसोऽधिजातोवनस्पतिस्तववृक्षोऽथबिल्वः।
तस्यफलानितपसानुदन्तुमायान्तरायाश्चबाह्याअलक्ष्मीः॥६॥
उपैतुमांदेवसखःकीर्तिश्चमणिनासह।
प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन्कीर्तिमृद्धिंददातुमे॥७॥
क्षुत्पिपासामलांज्येष्ठामलक्ष्मींनाशयाम्यहम्।
अभूतिमसमृद्धिंचसर्वांनिर्णुदमेगृहात्॥८॥
गन्धद्वारांदुराधर्षांनित्यपुष्टांकरीषिणीम्।
ईश्वरींग्सर्वभूतानांतामिहोपह्वयेश्रियम्॥९॥
मनसःकाममाकूतिंवाचःसत्यमशीमहि।
पशूनांरूपमन्नस्यमयिश्रीःश्रयतांयशः॥१०॥
कर्दमेनप्रजाभूतामयिसम्भवकर्दम।
श्रियंवासयमेकुलेमातरंपद्ममालिनीम्॥११॥
आपःसृजन्तुस्निग्धानिचिक्लीतवसमेगृहे।
निचदेवींमातरंश्रियंवासयमेकुले॥१२॥
आर्द्रांपुष्करिणींपुष्टिंपिङ्गलांपद्ममालिनीम्।
चन्द्रांहिरण्मयींलक्ष्मींजातवेदोमआवह॥१३॥
आर्द्रांयःकरिणींयष्टिंसुवर्णांहेममालिनीम्।
सूर्यांहिरण्मयींलक्ष्मींजातवेदोमआवह॥१४॥
तांमआवहजातवेदोलक्ष्मीमनपगामिनीम्।
यस्यांहिरण्यंप्रभूतंगावोदास्योऽश्वान्विन्देयंपूरुषानहम्॥१५॥
यःशुचिःप्रयतोभूत्वाजुहुयादाज्यमन्वहम्।
सूक्तंपञ्चदशर्चंचश्रीकामःसततंजपेत्॥१६॥
पद्माननेपद्मऊरुपद्माक्षीपद्मासम्भवे।
त्वंमांभजस्वपद्माक्षीयेनसौख्यंलभाम्यहम्॥१७॥
अश्वदायिगोदायिधनदायिमहाधने।
धनंमेजुषतांदेविसर्वकामांश्चदेहिमे॥१८॥
पुत्रपौत्रधनंधान्यंहस्त्यश्वादिगवेरथम्।
प्रजानांभवसिमाताआयुष्मन्तंकरोतुमाम्॥१९॥
धनमग्निर्धनंवायुर्धनंसूर्योधनंवसुः।
धनमिन्द्रोबृहस्पतिर्वरुणंधनमश्नुते॥२०॥
वैनतेयसोमंपिबसोमंपिबतुवृत्रहा।
सोमंधनस्यसोमिनोमह्यंददातुसोमिनः॥२१॥
नक्रोधोनचमात्सर्यनलोभोनाशुभामतिः।
भवन्तिकृतपुण्यानांभक्तानांश्रीसूक्तंजपेत्सदा॥२२॥
वर्षन्तुतेविभावरिदिवोअभ्रस्यविद्युतः।
रोहन्तुसर्वबीजान्यवब्रह्मद्विषोजहि॥२३॥
पद्मप्रियेपद्मिनिपद्महस्तेपद्मालयेपद्मदलायताक्षि।
विश्वप्रियेविष्णुमनोऽनुकूलेत्वत्पादपद्मंमयिसन्निधत्स्व॥२४॥
यासापद्मासनस्थाविपुलकटितटीपद्मपत्रायताक्षी।
गम्भीरावर्तनाभिःस्तनभरनमिताशुभ्रवस्त्रोत्तरीया॥२५॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिताहेमकुम्भैः।
नित्यंसापद्महस्ताममवसतुगृहेसर्वमाङ्गल्ययुक्ता॥२६॥
लक्ष्मींक्षीरसमुद्रराजतनयांश्रीरङ्गधामेश्वरीम्।
दासीभूतसमस्तदेववनितांलोकैकदीपांकुराम्॥२७॥
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम्।
त्वांत्रैलोक्यकुटुम्बिनींसरसिजांवन्देमुकुन्दप्रियाम्॥२८॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती।
श्रीलक्ष्मीर्वरलक्ष्मीश्चप्रसन्नाममसर्वदा॥२९॥
वरांकुशौपाशमभीतिमुद्रांकरैर्वहन्तींकमलासनस्थाम्।
बालार्ककोटिप्रतिभांत्रिणेत्रांभजेहमाद्यांजगदीस्वरींत्वाम्॥३०॥
सर्वमङ्गलमाङ्गल्येशिवेसर्वार्थसाधिके।
शरण्येत्र्यम्बकेदेविनारायणिनमोऽस्तुते॥
नारायणिनमोऽस्तुते॥नारायणिनमोऽस्तुते॥३१॥
सरसिजनिलयेसरोजहस्तेधवलतरांशुकगन्धमाल्यशोभे।
भगवतिहरिवल्लभेमनोज्ञेत्रिभुवनभूतिकरिप्रसीदमह्यम्॥३२॥
विष्णुपत्नींक्षमांदेवींमाधवींमाधवप्रियाम्।
विष्णोःप्रियसखींदेवींनमाम्यच्युतवल्लभाम्॥३३॥
महालक्ष्मीचविद्महेविष्णुपत्नीचधीमहि।
तन्नोलक्ष्मीःप्रचोदयात्॥३४॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात्पवमानंमहियते।
धनंधान्यंपशुंबहुपुत्रलाभंशतसंवत्सरंदीर्घमायुः॥३५॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः।
भयशोकमनस्तापानश्यन्तुममसर्वदा॥३६॥
यएवंवेद।
ॐमहादेव्यैचविद्महेविष्णुपत्नीचधीमहि।
तन्नोलक्ष्मीःप्रचोदयात्
ॐशान्तिःशान्तिःशान्तिः॥३७॥